|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.148. अध्यायः 148
Mahabharata - Adi Parva - Chapter Topics
गुरुदक्षिणात्वेन जीवतो द्रुपदस्य ग्रहणे द्रोणेनाज्ञापिते तदर्थं तेन सह सर्वशिष्याणां पाञ्चालपुरगमनम्॥ 1 ॥ द्रुपदग्रहणाय पाण्डववर्जं गतानां कौरवाणां तेन पराजयः॥ 2 ॥ तदनन्तरं गतेषु पाण्डवेषु अर्जुनेन द्रुपदग्रहणम्॥ 3 ॥ जीवग्राहं गृहीत्वा भीमार्जुनाभ्यां समर्पितेन द्रुपदेन द्रोणस्य संवादः॥ 4 ॥ द्रोणेनार्धराज्यापहारेण मुक्तस्य द्रुपदस्य पुत्रोत्पादनार्थं प्रयत्नः॥ 5 ॥
Mahabharata - Adi Parva - Chapter Text
वैशम्पायन उवाच। 1-148-0x(876)
पाण्डवान्धार्तराष्ट्रांश्च कृतास्त्रान्प्रसमीक्ष्य सः।
गुर्वर्थं दक्षिणां काले प्राप्तेऽमन्यत वै गुरुः॥ 1-148-1(6694)
`अस्त्रशिक्षामनुज्ञातान्रङ्गद्वारमुपागतान्।
भारद्वाजस्ततस्तांस्तु सर्वानेवाभ्यभाषत॥ 1-148-2(6695)
इच्छामि दत्तां सहितां मह्यं परमदक्षिणाम्।
एवमुक्तास्ततः सर्वे शिष्या द्रोणमथाब्रुवन्।
भगवन्किं प्रयच्छाम आज्ञापयतु नो गुरुः॥' 1-148-3(6696)
ततः शिष्यान्समाहूय आचार्योऽर्थमचोदयत्।
द्रोणः सर्वानशेषेण दक्षिणार्थं महीपते॥ 1-148-4(6697)
पञ्चालराजं द्रुपदं गृहित्वा रणमूर्धनि।
पर्यानयत भद्रं वः सा स्यात्परमदक्षिणा॥ 1-148-5(6698)
तथेत्युक्त्वा तु ते सर्वे रथैस्तूर्णं प्रहारिणः।
आचार्यधनदानार्थं द्रोणेन सहिता ययुः॥ 1-148-6(6699)
ततोऽभिजग्मुः पञ्चालान्निघ्नन्तस्ते नरर्षभाः।
ममृदुस्तस्य नगरं द्रुपदस्य महौजसः॥ 1-148-7(6700)
दुर्योधनश्च कर्णश्च युयुत्सुश्च महाबलः।
दुःशासनो विकर्णश्च जलसन्धः सुलोचनः॥ 1-148-8(6701)
एते चान्ये च बहवः कुमारा बहुविक्रमाः।
अहं पूर्वमहं पूर्वमित्येवं क्षत्रियर्षभाः॥ 1-148-9(6702)
ततो वरराथारूढाः कुमाराः सादिभिः सह।
प्रविश्य नगरं सर्वे राजमार्गमुपाययुः॥ 1-148-10(6703)
तस्मिन्काले तु पाञ्चालः श्रुत्वा दृष्ट्वा महद्बलम्।
भ्रातृभिः सहितो राजंस्त्वरया निर्ययौ गृहात्॥ 1-148-11(6704)
ततस्तु कृतसन्नाहा यज्ञसेनसहोदराः।
शरवर्षाणि मुञ्चन्तः प्रणेदुः सर्व एव ते॥ 1-148-12(6705)
ततो रथेन शुभ्रेण समासाद्य तु कौरवान्।
यज्ञसेनः शरान्घोरान्ववर्ष युधि दुर्जयः॥ 1-148-13(6706)
पूर्वमेव तु संमन्त्र्य पार्थो द्रोणमथाऽब्रवीत्।
दर्पोद्रेकात्कुमाराणामाचार्यं द्विजसत्तमम्॥ 1-148-14(6707)
एषां पराक्रमस्यान्ते वयं कुर्याम साहसम्।
एतैरशक्यः पाञ्चालो ग्रहीतुं रणमूर्धनि॥ 1-148-15(6708)
एवमुक्त्वा तु कौन्तेयो भ्रातृभिः सहितोऽनघः।
अर्धक्रोशे तु नगरादतिष्ठद्बहिरेव सः॥ 1-148-16(6709)
द्रुपदः कौरवान्दृष्ट्वा प्राधावत समन्ततः।
शरजालेन महता मोहयन्कौरवीं चमूम्॥ 1-148-17(6710)
तमुद्यतं रथेनैकमाशुकारिणमाहवे।
अनेकमिव सन्त्रासान्मेनिरे तत्र कौरवाः॥ 1-148-18(6711)
द्रुपदस्य शरा घोरा विचेरुः सर्वतोदिशम्।
ततः शङ्खाश्च भेर्यश्च मृदङ्गाश्च सहस्रशः॥ 1-148-19(6712)
प्रावाद्यन्त महाराज पञ्चालानां निवेशने।
सिंहनादश्च संजज्ञे पञ्चालानां महात्मनाम्॥ 1-148-20(6713)
धनुर्ज्यातलशब्दश्च संस्पृश्य गगनं महान्।
दुर्योधनो विकर्णश्च सुबाहुर्दीर्घलोचनः॥ 1-148-21(6714)
दुःशाशनश्च संक्रुद्धः शरवर्षैरवाकिरन्।
सोऽतिविद्धो महेष्वासः पार्षतो युधि दुर्जयः॥ 1-148-22(6715)
व्यधमत्तान्यनीकानि तत्क्षणादेव भारत।
दुर्योधनं विकर्णं च कर्णं चापि महाबलम्॥ 1-148-23(6716)
नानानृपसुतान्वीरान्सैन्यानि विविधानि च।
अलातचक्रवत्सर्वं चरन्बाणैरतर्पयत्॥ 1-148-24(6717)
ततस्तु नागराः सर्वे मुसलैर्यष्टिभिस्तदा।
अभ्यवर्षन्त कौरव्यान्वर्षमाणा घा इव॥ 1-148-25(6718)
सबालवृद्धाः काम्पिल्याः कौरवानभ्ययुस्तदा।
श्रुत्वा सुतुमुलं युद्धं कौरवानेव भारत॥ 1-148-26(6719)
द्रवन्तिस्म नदन्तिस्म क्रोशन्तः पाण्डवान्प्रति।
पाडवास्तु स्वनं श्रुत्वा आर्तानां रोमहर्षणम्॥ 1-148-27(6720)
अभिवाद्य ततो द्रोणं रथानारुरुहुस्तदा।
युधिष्ठिरं निवार्याशु मा युध्यस्वेति पाण्डवम्॥ 1-148-28(6721)
माद्रेयौ चक्ररक्षौ तु फाल्गुनश्च तदाऽकरोत्।
सेनाग्रगो भीमसेनस्तदाभूद्गदया सह॥ 1-148-29(6722)
तदा शत्रुस्वनं श्रुत्वा भ्रातृभिः सहितोऽनघः।
आयाज्जवेन कौन्तेयो रथेनानादयन्दिशः॥ 1-148-30(6723)
पञ्चालानां ततः सेनामुद्धूतार्णवनिःस्वनाम्।
भीमसेनो महाबाहुर्दण्डपाणिरिवान्तकः॥ 1-148-31(6724)
प्रविवेश महासेनां मकरः सागरं यथा।
`चतुरङ्गबलाकीर्णे ततस्तस्मिन्रणोत्सवे॥' 1-148-32(6725)
स्वयमभ्यद्रवद्भीमो नागानीकं गदाधरः॥ 1-148-33(6726)
स युद्धकुशलः पार्थो बाहुवीर्येण चातुलः।
अहनत्कुञ्जरानीकं गदया कालरूपधृक्॥ 1-148-34(6727)
ते गजा गिरिसङ्काशाः क्षरन्तो रुधिरं बहु।
भीमसेनस्य गदया भिन्नमस्तकपिण्डकाः॥ 1-148-35(6728)
पतन्ति द्विरदा भूमौ वज्रघातादिवाचलाः।
गजानश्वान्रथांश्चैव पातयामास पाण्डवः॥ 1-148-36(6729)
पदातींश्च रथांश्चैव न्यवधीदर्जुनाग्रजः।
गोपाल इव दण्डेन यथा पशुगणान्वने॥ 1-148-37(6730)
चालयन्रथनागांश्च संचचाल वृकोदरः।
भारद्वाजप्रियं कर्तुमुद्यतः फाल्गुनस्तदा॥ 1-148-38(6731)
पार्षतं शरजालेन क्षिपन्नागात्स पाण्डवः।
हयौघांश्च रथौघांश्च गजौघांश्च समन्ततः॥ 1-148-39(6732)
पातयन्समरे राजन्युगान्ताग्रिरिव ज्वलन्।
ततस्ते हन्यमाना वै पञ्चालाः सृञ्जयास्तथा॥ 1-148-40(6733)
शरैर्नानाविधैस्तूर्णं पार्थं संछाद्य सर्वशः।
सिंहनादं मुखैः कृत्वा समयुध्वन्त पाण्डवम्॥ 1-148-41(6734)
तद्युद्धमभवद्धोरं समुहाद्भुतदर्शनम्।
सिंहनादस्वनं श्रुत्वा नामृष्यत्पाकशासनिः॥ 1-148-42(6735)
ततः किरीटी सहसा पञ्चालान्समरेऽद्रवत्।
छादयन्निषुजालेन महता मोहयन्निव॥ 1-148-43(6736)
शीघ्रमभ्यस्यतो बाणान्संदधानस्य चानिशम्।
नान्तरं ददृशे किंचित्कौन्तेयस्य यशस्विनः॥ 1-148-44(6737)
`न दिशो नान्तरिक्षं च तदा नैव च मेदिनी।
अदृश्यत महाराज तत्र किंचिन्न सङ्गरे॥ 1-148-45(6738)
पाञ्चालानां कुरूणां च साधुसाध्विति निस्वनः।
तत्र तूर्यनिनादश्च शङ्खानां च महास्वनः॥' 1-148-46(6739)
सिंहनादश्च संजज्ञे साधुशब्देन मिश्रितः।
ततः पाञ्चालराजस्तु तथा सत्यजिता सह॥ 1-148-47(6740)
त्वरमाणोऽभिदुद्राव महेन्द्रं शम्बरो यथा।
महता शरवर्षेण पार्थः पाञ्चालमावृणोत्॥ 1-148-48(6741)
ततो हलहलाशब्द आसीत्पाञ्चालके बले।
जिवृक्षति महासिंहे गजानामिव यूथपम्॥ 1-148-49(6742)
दृष्ट्वा पार्थं तदायान्तं सत्यजित्सत्यविक्रमः।
पाञ्चालं वै परिप्रेप्सुर्धनञ्जयमदुद्रुवत्॥ 1-148-50(6743)
ततस्त्वर्जुनपाञ्चालौ युद्धाय समुपागतौ।
व्यक्षोभयेतां तौ सैन्यमिन्द्रवैरोचनाविव॥ 1-148-51(6744)
ततः सत्यजितं पार्थो दशभिर्मर्मभेदिभिः।
विव्याध बवलद्गाढं तदद्भुतमिवाभवत्॥ 1-148-52(6745)
ततः शरशतैः पार्थं पाञ्चालः शीघ्रमार्दयत्।
पार्थस्तु शरवर्षेण च्छाद्यमानो महारथः॥ 1-148-53(6746)
वेगं चक्रे महावेगो धनुर्ज्यामवमृज्य च।
ततः सत्यजितश्चापं छित्वा राजानमभ्ययात्॥ 1-148-54(6747)
अथान्यद्धनुरादाय सत्यजिद्वेगवत्तरम्।
साश्वं ससूतं सरथं पार्थं विव्याध सत्वरः॥ 1-148-55(6748)
स तं न ममृषे पार्थः पाञ्चालेनार्दितो युधि।
ततस्तस्य विनाशार्थं सत्वरं व्यसृजच्छरान्॥ 1-148-56(6749)
हयान्ध्वजं धनुर्मुष्टिमुभौ तौ पार्ष्णिसारथी।
स तथा भिद्यमानेषु कार्मुकेषु पुनः पुनः॥ 1-148-57(6750)
हयेषु विनिकृत्तेषु विमुखोऽभवदाहवे।
स सत्यजितमालेक्य तथा विमुखमाहवे॥ 1-148-58(6751)
वेगेन महता राजन्नभ्यधावत पार्षतम्।
तदा चक्रे महद्युद्धमर्जुनो जयतां वरः॥ 1-148-59(6752)
तस्य पार्थो धनुश्छित्त्वा ध्वजं चोर्व्यामपातयत्।
पञ्चभिस्तस्य विव्याध हयान्सूतं च सायकैः॥ 1-148-60(6753)
तत उत्सृज्य तच्चापमाददानः शरावरम्।
खड्गमुद्धृत्य कौन्तेयः सिंहनादमथाकरोत्॥ 1-148-61(6754)
पाञ्चालस्य रथस्येषामाप्लुत्य सहसाऽपतत्।
पाञ्चालरथमास्थाय अवित्रस्तो धनञ्जयः॥ 1-148-62(6755)
विक्षोभ्याम्भोनिधिंतार्क्ष्यस्तंनागमिव सोऽग्रहीत्।
ततस्तु सर्वपाञ्चाला विद्रवन्ति दिशो दश॥ 1-148-63(6756)
दर्शयन्सर्वसैन्यानां स बाह्वोर्बलमात्मनः।
सिंहनादस्वनं कृत्वा निर्जगाम धनञ्जयः॥ 1-148-64(6757)
आयान्तमर्जुनं दृष्ट्वा कुमाराः सहितास्तदा।
ममृदुस्तस्य नगरं द्रुपदस्य महात्मनः॥ 1-148-65(6758)
अर्जुन उवाच। 1-148-66x(877)
संबन्धी कुरुवीराणां द्रुपदो राजसत्तमः।
मा वधीस्तद्बलं भीम गुरुदानं प्रदीयताम्॥ 1-148-66(6759)
वैशम्पायन उवाच। 1-148-67x(878)
भीमसेनस्तदा राजन्नर्जुनेन निवारितः।
अतृप्तो युद्धधर्मेषु न्यवर्तत महाबलः॥ 1-148-67(6760)
ते यज्ञसेनं द्रुपदं गृहीत्वा रणमूर्धनि।
उपाजग्मुः सहामात्यं द्रोणाय भरतर्षभ॥ 1-148-68(6761)
भग्नदर्पं हृतधनं तं तथा वशमागतम्।
स वैरं मनसा ध्यात्वा द्रोणो द्रुपदमब्रवीत्॥ 1-148-69(6762)
विमृज्य तरसा राष्ट्रं पुरं ते मृदितं मया।
प्राप्य जीवन्रिपुवशं सखिपूर्वं किमिष्यते॥ 1-148-70(6763)
एवमुक्त्वा प्रहस्यैनं किंचित्स पुनरब्रवीत्।
मा भैः प्राणभयाद्वीर क्षमिणो ब्राह्मणा वयम्॥ 1-148-71(6764)
आश्रमे क्रीडितं यत्तु त्वया बाल्ये मया सह।
तेन संवर्धितः स्नेहः प्रीतिश्च क्षत्रियर्षभ॥ 1-148-72(6765)
प्रार्थयेयं त्वया सख्यं पुनरेव जनाधिप।
वरं ददामि ते राजन्राज्यस्यार्धमवाप्नुहि॥ 1-148-73(6766)
अराजा किल नो राज्ञः सखा भवितुमर्हति।
अतः प्रयतितं राज्ये यज्ञसेन मया तव॥ 1-148-74(6767)
राजासि दक्षिणे कूले भागीरथ्याहमुत्तरे।
सखायं मां विजानीहि पाञ्चाल यदि मन्यसे॥ 1-148-75(6768)
द्रुपद उवाच। 1-148-76x(879)
अनाश्चर्यमिदं ब्रह्मन्विक्रान्तेषु महात्मसु।
प्रीये त्वयाऽहं त्वत्तश्च प्रीतिमिच्छामि शाश्वतीम्॥ 1-148-76(6769)
वैशम्पायन उवाच। 1-148-77x(880)
एवमुक्तः स तं द्रोणो मोक्षयामास भारत।
सत्कृत्य चैनं प्रीतात्मा राज्यार्धं प्रत्यपादयत्॥ 1-148-77(6770)
माकन्दीमथ गङ्गायास्तीरे जनपदायुताम्।
सोऽध्यावसद्दीनमनाः काम्पिल्यं च पुरोत्तमम्॥ 1-148-78(6771)
दक्षिणांश्चापि पञ्चालान्यावच्चर्मण्वती नदी।
द्रोणेन चैवं द्रुपदः परिभूयाथ पालितः॥ 1-148-79(6772)
क्षात्रेण च बलेनास्य नापश्यत्स पराजयम्।
हीनं विदित्वा चात्मानं ब्राह्मेण स बलेनतु॥ 1-148-80(6773)
पुत्रजन्म परीप्सन्वै पृथिवीमन्वसंचरत्।
अहिच्छत्रं च विषयं द्रोणः समभिपद्यत॥ 1-148-81(6774)
एवं राजन्नहिच्छत्रा पुरीजनपदायुता।
युधि निर्जित्य पार्थेन द्रोणाय प्रतिपादिता॥ ॥ 1-148-82(6775)
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि अष्टचत्वारिंशदधिकशततमोऽध्यायः॥ 148 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-148-61 शरावरं चर्म॥ 1-148-62 ईषा रथस्य युगचक्रसंलग्नं महादारु॥ 1-148-70 प्राप्य जीवन्नृप वशामिति ङपाठः॥ अष्टचत्वारिंशदधिकशततमोऽध्यायः॥ 148 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|