(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Aadiparv (Mahabharat) - आदिपर्व (महाभारत)


॥ श्रीः ॥
1.148. अध्यायः 148
Mahabharata - Adi Parva - Chapter Topics
गुरुदक्षिणात्वेन जीवतो द्रुपदस्य ग्रहणे द्रोणेनाज्ञापिते तदर्थं तेन सह सर्वशिष्याणां पाञ्चालपुरगमनम्॥ 1 ॥ द्रुपदग्रहणाय पाण्डववर्जं गतानां कौरवाणां तेन पराजयः॥ 2 ॥ तदनन्तरं गतेषु पाण्डवेषु अर्जुनेन द्रुपदग्रहणम्॥ 3 ॥ जीवग्राहं गृहीत्वा भीमार्जुनाभ्यां समर्पितेन द्रुपदेन द्रोणस्य संवादः॥ 4 ॥ द्रोणेनार्धराज्यापहारेण मुक्तस्य द्रुपदस्य पुत्रोत्पादनार्थं प्रयत्नः॥ 5 ॥
Mahabharata - Adi Parva - Chapter Text

वैशम्पायन उवाच। 1-148-0x(876)
पाण्डवान्धार्तराष्ट्रांश्च कृतास्त्रान्प्रसमीक्ष्य सः।
गुर्वर्थं दक्षिणां काले प्राप्तेऽमन्यत वै गुरुः॥ 1-148-1(6694)
`अस्त्रशिक्षामनुज्ञातान्रङ्गद्वारमुपागतान्।
भारद्वाजस्ततस्तांस्तु सर्वानेवाभ्यभाषत॥ 1-148-2(6695)
इच्छामि दत्तां सहितां मह्यं परमदक्षिणाम्।
एवमुक्तास्ततः सर्वे शिष्या द्रोणमथाब्रुवन्।
भगवन्किं प्रयच्छाम आज्ञापयतु नो गुरुः॥' 1-148-3(6696)
ततः शिष्यान्समाहूय आचार्योऽर्थमचोदयत्।
द्रोणः सर्वानशेषेण दक्षिणार्थं महीपते॥ 1-148-4(6697)
पञ्चालराजं द्रुपदं गृहित्वा रणमूर्धनि।
पर्यानयत भद्रं वः सा स्यात्परमदक्षिणा॥ 1-148-5(6698)
तथेत्युक्त्वा तु ते सर्वे रथैस्तूर्णं प्रहारिणः।
आचार्यधनदानार्थं द्रोणेन सहिता ययुः॥ 1-148-6(6699)
ततोऽभिजग्मुः पञ्चालान्निघ्नन्तस्ते नरर्षभाः।
ममृदुस्तस्य नगरं द्रुपदस्य महौजसः॥ 1-148-7(6700)
दुर्योधनश्च कर्णश्च युयुत्सुश्च महाबलः।
दुःशासनो विकर्णश्च जलसन्धः सुलोचनः॥ 1-148-8(6701)
एते चान्ये च बहवः कुमारा बहुविक्रमाः।
अहं पूर्वमहं पूर्वमित्येवं क्षत्रियर्षभाः॥ 1-148-9(6702)
ततो वरराथारूढाः कुमाराः सादिभिः सह।
प्रविश्य नगरं सर्वे राजमार्गमुपाययुः॥ 1-148-10(6703)
तस्मिन्काले तु पाञ्चालः श्रुत्वा दृष्ट्वा महद्बलम्।
भ्रातृभिः सहितो राजंस्त्वरया निर्ययौ गृहात्॥ 1-148-11(6704)
ततस्तु कृतसन्नाहा यज्ञसेनसहोदराः।
शरवर्षाणि मुञ्चन्तः प्रणेदुः सर्व एव ते॥ 1-148-12(6705)
ततो रथेन शुभ्रेण समासाद्य तु कौरवान्।
यज्ञसेनः शरान्घोरान्ववर्ष युधि दुर्जयः॥ 1-148-13(6706)
पूर्वमेव तु संमन्त्र्य पार्थो द्रोणमथाऽब्रवीत्।
दर्पोद्रेकात्कुमाराणामाचार्यं द्विजसत्तमम्॥ 1-148-14(6707)
एषां पराक्रमस्यान्ते वयं कुर्याम साहसम्।
एतैरशक्यः पाञ्चालो ग्रहीतुं रणमूर्धनि॥ 1-148-15(6708)
एवमुक्त्वा तु कौन्तेयो भ्रातृभिः सहितोऽनघः।
अर्धक्रोशे तु नगरादतिष्ठद्बहिरेव सः॥ 1-148-16(6709)
द्रुपदः कौरवान्दृष्ट्वा प्राधावत समन्ततः।
शरजालेन महता मोहयन्कौरवीं चमूम्॥ 1-148-17(6710)
तमुद्यतं रथेनैकमाशुकारिणमाहवे।
अनेकमिव सन्त्रासान्मेनिरे तत्र कौरवाः॥ 1-148-18(6711)
द्रुपदस्य शरा घोरा विचेरुः सर्वतोदिशम्।
ततः शङ्खाश्च भेर्यश्च मृदङ्गाश्च सहस्रशः॥ 1-148-19(6712)
प्रावाद्यन्त महाराज पञ्चालानां निवेशने।
सिंहनादश्च संजज्ञे पञ्चालानां महात्मनाम्॥ 1-148-20(6713)
धनुर्ज्यातलशब्दश्च संस्पृश्य गगनं महान्।
दुर्योधनो विकर्णश्च सुबाहुर्दीर्घलोचनः॥ 1-148-21(6714)
दुःशाशनश्च संक्रुद्धः शरवर्षैरवाकिरन्।
सोऽतिविद्धो महेष्वासः पार्षतो युधि दुर्जयः॥ 1-148-22(6715)
व्यधमत्तान्यनीकानि तत्क्षणादेव भारत।
दुर्योधनं विकर्णं च कर्णं चापि महाबलम्॥ 1-148-23(6716)
नानानृपसुतान्वीरान्सैन्यानि विविधानि च।
अलातचक्रवत्सर्वं चरन्बाणैरतर्पयत्॥ 1-148-24(6717)
ततस्तु नागराः सर्वे मुसलैर्यष्टिभिस्तदा।
अभ्यवर्षन्त कौरव्यान्वर्षमाणा घा इव॥ 1-148-25(6718)
सबालवृद्धाः काम्पिल्याः कौरवानभ्ययुस्तदा।
श्रुत्वा सुतुमुलं युद्धं कौरवानेव भारत॥ 1-148-26(6719)
द्रवन्तिस्म नदन्तिस्म क्रोशन्तः पाण्डवान्प्रति।
पाडवास्तु स्वनं श्रुत्वा आर्तानां रोमहर्षणम्॥ 1-148-27(6720)
अभिवाद्य ततो द्रोणं रथानारुरुहुस्तदा।
युधिष्ठिरं निवार्याशु मा युध्यस्वेति पाण्डवम्॥ 1-148-28(6721)
माद्रेयौ चक्ररक्षौ तु फाल्गुनश्च तदाऽकरोत्।
सेनाग्रगो भीमसेनस्तदाभूद्गदया सह॥ 1-148-29(6722)
तदा शत्रुस्वनं श्रुत्वा भ्रातृभिः सहितोऽनघः।
आयाज्जवेन कौन्तेयो रथेनानादयन्दिशः॥ 1-148-30(6723)
पञ्चालानां ततः सेनामुद्धूतार्णवनिःस्वनाम्।
भीमसेनो महाबाहुर्दण्डपाणिरिवान्तकः॥ 1-148-31(6724)
प्रविवेश महासेनां मकरः सागरं यथा।
`चतुरङ्गबलाकीर्णे ततस्तस्मिन्रणोत्सवे॥' 1-148-32(6725)
स्वयमभ्यद्रवद्भीमो नागानीकं गदाधरः॥ 1-148-33(6726)
स युद्धकुशलः पार्थो बाहुवीर्येण चातुलः।
अहनत्कुञ्जरानीकं गदया कालरूपधृक्॥ 1-148-34(6727)
ते गजा गिरिसङ्काशाः क्षरन्तो रुधिरं बहु।
भीमसेनस्य गदया भिन्नमस्तकपिण्डकाः॥ 1-148-35(6728)
पतन्ति द्विरदा भूमौ वज्रघातादिवाचलाः।
गजानश्वान्रथांश्चैव पातयामास पाण्डवः॥ 1-148-36(6729)
पदातींश्च रथांश्चैव न्यवधीदर्जुनाग्रजः।
गोपाल इव दण्डेन यथा पशुगणान्वने॥ 1-148-37(6730)
चालयन्रथनागांश्च संचचाल वृकोदरः।
भारद्वाजप्रियं कर्तुमुद्यतः फाल्गुनस्तदा॥ 1-148-38(6731)
पार्षतं शरजालेन क्षिपन्नागात्स पाण्डवः।
हयौघांश्च रथौघांश्च गजौघांश्च समन्ततः॥ 1-148-39(6732)
पातयन्समरे राजन्युगान्ताग्रिरिव ज्वलन्।
ततस्ते हन्यमाना वै पञ्चालाः सृञ्जयास्तथा॥ 1-148-40(6733)
शरैर्नानाविधैस्तूर्णं पार्थं संछाद्य सर्वशः।
सिंहनादं मुखैः कृत्वा समयुध्वन्त पाण्डवम्॥ 1-148-41(6734)
तद्युद्धमभवद्धोरं समुहाद्भुतदर्शनम्।
सिंहनादस्वनं श्रुत्वा नामृष्यत्पाकशासनिः॥ 1-148-42(6735)
ततः किरीटी सहसा पञ्चालान्समरेऽद्रवत्।
छादयन्निषुजालेन महता मोहयन्निव॥ 1-148-43(6736)
शीघ्रमभ्यस्यतो बाणान्संदधानस्य चानिशम्।
नान्तरं ददृशे किंचित्कौन्तेयस्य यशस्विनः॥ 1-148-44(6737)
`न दिशो नान्तरिक्षं च तदा नैव च मेदिनी।
अदृश्यत महाराज तत्र किंचिन्न सङ्गरे॥ 1-148-45(6738)
पाञ्चालानां कुरूणां च साधुसाध्विति निस्वनः।
तत्र तूर्यनिनादश्च शङ्खानां च महास्वनः॥' 1-148-46(6739)
सिंहनादश्च संजज्ञे साधुशब्देन मिश्रितः।
ततः पाञ्चालराजस्तु तथा सत्यजिता सह॥ 1-148-47(6740)
त्वरमाणोऽभिदुद्राव महेन्द्रं शम्बरो यथा।
महता शरवर्षेण पार्थः पाञ्चालमावृणोत्॥ 1-148-48(6741)
ततो हलहलाशब्द आसीत्पाञ्चालके बले।
जिवृक्षति महासिंहे गजानामिव यूथपम्॥ 1-148-49(6742)
दृष्ट्वा पार्थं तदायान्तं सत्यजित्सत्यविक्रमः।
पाञ्चालं वै परिप्रेप्सुर्धनञ्जयमदुद्रुवत्॥ 1-148-50(6743)
ततस्त्वर्जुनपाञ्चालौ युद्धाय समुपागतौ।
व्यक्षोभयेतां तौ सैन्यमिन्द्रवैरोचनाविव॥ 1-148-51(6744)
ततः सत्यजितं पार्थो दशभिर्मर्मभेदिभिः।
विव्याध बवलद्गाढं तदद्भुतमिवाभवत्॥ 1-148-52(6745)
ततः शरशतैः पार्थं पाञ्चालः शीघ्रमार्दयत्।
पार्थस्तु शरवर्षेण च्छाद्यमानो महारथः॥ 1-148-53(6746)
वेगं चक्रे महावेगो धनुर्ज्यामवमृज्य च।
ततः सत्यजितश्चापं छित्वा राजानमभ्ययात्॥ 1-148-54(6747)
अथान्यद्धनुरादाय सत्यजिद्वेगवत्तरम्।
साश्वं ससूतं सरथं पार्थं विव्याध सत्वरः॥ 1-148-55(6748)
स तं न ममृषे पार्थः पाञ्चालेनार्दितो युधि।
ततस्तस्य विनाशार्थं सत्वरं व्यसृजच्छरान्॥ 1-148-56(6749)
हयान्ध्वजं धनुर्मुष्टिमुभौ तौ पार्ष्णिसारथी।
स तथा भिद्यमानेषु कार्मुकेषु पुनः पुनः॥ 1-148-57(6750)
हयेषु विनिकृत्तेषु विमुखोऽभवदाहवे।
स सत्यजितमालेक्य तथा विमुखमाहवे॥ 1-148-58(6751)
वेगेन महता राजन्नभ्यधावत पार्षतम्।
तदा चक्रे महद्युद्धमर्जुनो जयतां वरः॥ 1-148-59(6752)
तस्य पार्थो धनुश्छित्त्वा ध्वजं चोर्व्यामपातयत्।
पञ्चभिस्तस्य विव्याध हयान्सूतं च सायकैः॥ 1-148-60(6753)
तत उत्सृज्य तच्चापमाददानः शरावरम्।
खड्गमुद्धृत्य कौन्तेयः सिंहनादमथाकरोत्॥ 1-148-61(6754)
पाञ्चालस्य रथस्येषामाप्लुत्य सहसाऽपतत्।
पाञ्चालरथमास्थाय अवित्रस्तो धनञ्जयः॥ 1-148-62(6755)
विक्षोभ्याम्भोनिधिंतार्क्ष्यस्तंनागमिव सोऽग्रहीत्।
ततस्तु सर्वपाञ्चाला विद्रवन्ति दिशो दश॥ 1-148-63(6756)
दर्शयन्सर्वसैन्यानां स बाह्वोर्बलमात्मनः।
सिंहनादस्वनं कृत्वा निर्जगाम धनञ्जयः॥ 1-148-64(6757)
आयान्तमर्जुनं दृष्ट्वा कुमाराः सहितास्तदा।
ममृदुस्तस्य नगरं द्रुपदस्य महात्मनः॥ 1-148-65(6758)
अर्जुन उवाच। 1-148-66x(877)
संबन्धी कुरुवीराणां द्रुपदो राजसत्तमः।
मा वधीस्तद्बलं भीम गुरुदानं प्रदीयताम्॥ 1-148-66(6759)
वैशम्पायन उवाच। 1-148-67x(878)
भीमसेनस्तदा राजन्नर्जुनेन निवारितः।
अतृप्तो युद्धधर्मेषु न्यवर्तत महाबलः॥ 1-148-67(6760)
ते यज्ञसेनं द्रुपदं गृहीत्वा रणमूर्धनि।
उपाजग्मुः सहामात्यं द्रोणाय भरतर्षभ॥ 1-148-68(6761)
भग्नदर्पं हृतधनं तं तथा वशमागतम्।
स वैरं मनसा ध्यात्वा द्रोणो द्रुपदमब्रवीत्॥ 1-148-69(6762)
विमृज्य तरसा राष्ट्रं पुरं ते मृदितं मया।
प्राप्य जीवन्रिपुवशं सखिपूर्वं किमिष्यते॥ 1-148-70(6763)
एवमुक्त्वा प्रहस्यैनं किंचित्स पुनरब्रवीत्।
मा भैः प्राणभयाद्वीर क्षमिणो ब्राह्मणा वयम्॥ 1-148-71(6764)
आश्रमे क्रीडितं यत्तु त्वया बाल्ये मया सह।
तेन संवर्धितः स्नेहः प्रीतिश्च क्षत्रियर्षभ॥ 1-148-72(6765)
प्रार्थयेयं त्वया सख्यं पुनरेव जनाधिप।
वरं ददामि ते राजन्राज्यस्यार्धमवाप्नुहि॥ 1-148-73(6766)
अराजा किल नो राज्ञः सखा भवितुमर्हति।
अतः प्रयतितं राज्ये यज्ञसेन मया तव॥ 1-148-74(6767)
राजासि दक्षिणे कूले भागीरथ्याहमुत्तरे।
सखायं मां विजानीहि पाञ्चाल यदि मन्यसे॥ 1-148-75(6768)
द्रुपद उवाच। 1-148-76x(879)
अनाश्चर्यमिदं ब्रह्मन्विक्रान्तेषु महात्मसु।
प्रीये त्वयाऽहं त्वत्तश्च प्रीतिमिच्छामि शाश्वतीम्॥ 1-148-76(6769)
वैशम्पायन उवाच। 1-148-77x(880)
एवमुक्तः स तं द्रोणो मोक्षयामास भारत।
सत्कृत्य चैनं प्रीतात्मा राज्यार्धं प्रत्यपादयत्॥ 1-148-77(6770)
माकन्दीमथ गङ्गायास्तीरे जनपदायुताम्।
सोऽध्यावसद्दीनमनाः काम्पिल्यं च पुरोत्तमम्॥ 1-148-78(6771)
दक्षिणांश्चापि पञ्चालान्यावच्चर्मण्वती नदी।
द्रोणेन चैवं द्रुपदः परिभूयाथ पालितः॥ 1-148-79(6772)
क्षात्रेण च बलेनास्य नापश्यत्स पराजयम्।
हीनं विदित्वा चात्मानं ब्राह्मेण स बलेनतु॥ 1-148-80(6773)
पुत्रजन्म परीप्सन्वै पृथिवीमन्वसंचरत्।
अहिच्छत्रं च विषयं द्रोणः समभिपद्यत॥ 1-148-81(6774)
एवं राजन्नहिच्छत्रा पुरीजनपदायुता।
युधि निर्जित्य पार्थेन द्रोणाय प्रतिपादिता॥ ॥ 1-148-82(6775)

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि अष्टचत्वारिंशदधिकशततमोऽध्यायः॥ 148 ॥

Mahabharata - Adi Parva - Chapter Footnotes
1-148-61 शरावरं चर्म॥ 1-148-62 ईषा रथस्य युगचक्रसंलग्नं महादारु॥ 1-148-70 प्राप्य जीवन्नृप वशामिति ङपाठः॥ अष्टचत्वारिंशदधिकशततमोऽध्यायः॥ 148 ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.